|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.175. अध्यायः 175
Mahabharata - Udyoga Parva - Chapter Topics
भीष्मानुज्ञया साल्वं गताया अम्बायास्तेन परित्यागः ॥ 1 ॥ अम्बया भीष्मस्य प्रतिचिकीर्षया तापसाश्रममेत्य तेषु स्ववृत्तान्तनिवेदनम् ॥ 2 ॥

Mahabharata - Udyoga Parva - Chapter Text
भीष्म उवाच। 5-175-0x(3883)(37832)
ततोऽहं समनुज्ञाप्य कालीं गन्धवतीं तदा।
मन्त्रिणश्चर्त्विजश्चैव तथैव च पुरोहितान्।
समनुज्ञामिषं कन्यामम्बां ज्येष्ठां नराधिप ॥ 5-175-1(37833)
अनुज्ञाता ययौ सा तु कन्या साल्वपतेः पुरम्।
वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा ॥ 5-175-2(37834)
अतीत्य च तमध्वानमासमाद नराधिपम ।
सा तमासाद्य राजानं साल्वं वचनमब्रवीत् ॥ 5-175-3(37835)
आगताहं महाबाहो त्वामुद्दिश्य महामते।
`अभिनन्दस्व मां राजन्सदा प्रियहिते रताम्॥ 5-175-4(37836)
प्रतिपादय मां राजन्धर्मादींश्चर धर्मतः ।
त्वं हि मे मनसा ध्यातस्त्वया चाप्युपमन्त्रिता ॥ 5-175-5(37837)
भीष्म उवाच।' 5-175-6x(3884)
तामब्रवीत्साल्वपतिः स्मयन्निव विशांपते।
त्वयाऽन्यपूर्वया नाहं भार्यार्थी वरवर्णिनि ॥ 5-175-6(37838)
गच्छ भद्रे पुनस्तत्र सकाशं भीष्मकस्य वै।
नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै ॥ 5-175-7(37839)
त्वं हि भीष्मेण निर्जित्य नीता प्रीतिमती तदा।
परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन् ॥ 5-175-8(37840)
नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि ।
कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत् ॥ 5-175-9(37841)
नारीं विदितविज्ञानः परेषां धर्ममादिशन्।
यथेष्टं गम्यतां भद्रे मा त्वां कालोऽत्यगादयम् ॥ 5-175-10(37842)
अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता।
नैवं वद महीपाल नैतदेवं कथंचन ॥ 5-175-11(37843)
नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन ।
बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन् ॥ 5-175-12(37844)
भजस्व मां साल्वपते भक्तां बालामनागसम् ।
भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते ॥ 5-175-13(37845)
साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम् ।
अनुज्ञाता च तेनैव ततोऽहं भृशमागता ॥ 5-175-14(37846)
न स भीष्मो महाबाहुर्मामिच्छति विशांपते ।
भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया ॥ 5-175-15(37847)
भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप।
प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे ॥ 5-175-16(37848)
यथा साल्वपते नान्यं वरं यामि कथंचन।
त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे ॥ 5-175-17(37849)
न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता।
सत्यं ब्रवीमि साल्वैतत्सत्येनात्मानमालभे ॥ 5-175-18(37850)
भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम्।
अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम् ॥ 5-175-19(37851)
तामेवं भाषमाणां तु साल्वः काशिपतेः सुताम्।
अत्यजद्भरतश्रेष्ठ जीर्णां त्वचमिवोरगः ॥ 5-175-20(37852)
एवं बहुविधैर्वाक्यैर्याच्यमानस्तया नृपः ।
नाश्रद्दधत्साल्वपतिः कन्यायां भरतर्षभ ॥ 5-175-21(37853)
ततः सा मन्युनाऽऽविष्टा ज्येष्ठा काशिपतेः सुता।
अब्रवीत्साश्रुनयना बाष्पविप्लुतया गिरा ॥ 5-175-22(37854)
त्वया त्यक्ता गमिष्यामि यत्र तत्र विशांपते।
तत्र मे गतयः सन्तु सन्तः सत्यं यथा ध्रुवम् ॥ 5-175-23(37855)
एवं तां भाषमाणां तु कन्यां साल्वपतिस्तदा।
परितत्याज कौरव्य करुणं परिदेवतीम् ॥ 5-175-24(37856)
गच्छ गच्छेति तां साल्वः पुनः पुनरभाषत।
बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः ॥ 5-175-25(37857)
एवमुक्ता तु सा तेन साल्वेनादीर्घदर्शिना ।
निश्चक्राम पुराद्दीना रुदती कुररी यथा ॥ 5-175-26(37858)
भीष्म उवाच। 5-175-27x(3885)
निष्क्रामन्ती तु नगराच्चिन्तयामास दुःखिता ।
पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया ॥ 5-175-27(37859)
बन्धुर्भिर्विप्रहीणास्मि साल्वेन च निराकृता ।
न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम् ॥ 5-175-28(37860)
अनुज्ञाता तु भीष्मेण साल्वमुद्दिश्य कारणम्।
किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् ॥ 5-175-29(37861)
अथवा पितरं मूढं यो मेऽकार्षीत्स्वयंवरम् ।
मयाऽयं स्वकृतो दोषो याऽहं भीष्मरथात्तदा ॥ 5-175-30(37862)
प्रवृत्ते दारुणे युद्धे साल्वार्थं नापतं पुरा।
तस्येयं फलनिर्वृत्तिर्यदापन्नाऽस्मि मूढवत् ॥ 5-175-31(37863)
धिग्भीष्मं धिक्क मे मन्दं पितरं मूढचेतसम् ।
येनाहं वीर्यशुल्केन पण्यस्त्रीव प्रचोदिता ॥ 5-175-32(37864)
धिङ्मां धिक्साल्वराजानं धिग्धातारमथापि वा ।
येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम् ॥ 5-175-33(37865)
सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः ।
अनयस्यास्य तु मुखं भीष्मः शान्तनवो मम ॥ 5-175-34(37866)
सा भीष्मे प्रतिकर्तव्यमहं पश्यामि सांप्रतम् ।
तपसा वा युधा वापि दुःखहेतुः स मे मतः ॥ 5-175-35(37867)
को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः ।
एवं सा परिनिश्चित्य जगाम नगराद्बहिः ॥ 5-175-36(37868)
आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ।
ततस्तामवसद्रात्रिं तापसैः परिवारिता ॥ 5-175-37(37869)
आचख्यौ च यथावृत्तं सर्वमात्मनि भारत ।
विस्तरेण महाबाहो निखिलेन शुचिस्मिता ।
हरणं च विसर्गं च साल्वेन च विसर्जनम् ॥ 5-175-38(37870)
ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः ।
शैखावत्यस्तपोबृद्धः शास्त्रे चारण्यके गुरुः ॥ 5-175-39(37871)
आर्ता तामाह स मुनिः शैखावत्यो महातपाः ।
निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् ॥ 5-175-40(37872)
एवं गते तु किं भद्रे शक्यं कर्तुं तपस्विभिः ।
आश्रमस्थैर्महाभागे तपोयुक्तैर्महात्मभिः ॥ 5-175-41(37873)
सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः ।
प्राव्राज्यमहमिच्छामि तपस्तप्स्यामि दुश्चरम् ॥ 5-175-42(37874)
मयैव यानि कर्माणि पूर्वदेहे तु मूढया।
कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम् ॥ 5-175-43(37875)
नोत्सहे तु पुनर्गन्तुं स्वजनं प्रति तापसाः ।
प्रत्याख्याता निरानन्दा साल्वेन च निराकृता ॥ 5-175-44(37876)
उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः ।
युष्माभिर्देवसंकाशैः कृपा भवतु वो मयि ॥ 5-175-45(37877)
स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः ।
सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह ॥ ॥ 5-175-46(37878)
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि पञ्चसप्तत्यधिकशत्तमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-175-39 शैखावत्यः शिखावान् वह्निस्तत्साध्यानि श्रौतस्मार्तकर्माणि शैखावतानि तेषु साधुः शैखावत्यः। आरण्यके उपनिषदि गुरुब्रह्मविदित्यर्थः ॥ 5-175-46 दृष्टान्तो लौकिकोदाहरणम् । आगमो वेदः। हेतुर्युक्तिः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|